श्रीरमोदन्तम् – बालकाण्डः
(Anvaya of 5 verses)
श्रीरामोदन्तम् is a very short version of
Ramayana, popular among Samskritam students, taught at entry level of Kavya. While Valmiki Ramayana has about 25,000
verses, in this version the story is covered in just 179 verses. The narration
is quite simple but is said to be very effective for understanding of basic
grammar, Subanta, Tiganta, Sandhi, Samasa etc. Not much is known about its
author (some say it is Parameswara Kavi).
Here,
we take a few verses from Bala Kanda (Chapter 1) in the traditional method of Anvaya
Rachana which involves:
-
पदच्छेदः – Breaking the compound words, which requires knowledge of
Sandhis
-
पदपरिचयः – Understanding each word of the verse
सुबन्तम् (nouns) with लिङ्ग-वचन-विभक्तिः, तिङन्तम् with पुरुषः-लकारः-वचनम् & अव्ययः etc.
-
अन्वयः & अन्वयार्थ:– Logical sequence
words into sentences and Word to word meaning
-
तात्पर्यम् – Proper description of the idea conveyed by the verse.
(अन्वयार्थ: & तात्पर्यम् not covered in this version)
श्रीपतिं प्रणिपत्याहं शीवत्साङ्कितवक्षसम् ।
श्रीरामोदन्तमाख्यास्ये श्रीवात्मीकिप्रकीर्तितम् ॥ १ ॥
पदच्छेदः
श्रीपतिम् प्रणिपत्य अहम् श्रीवत्साङ्कितवक्षसम् श्रीरामोदन्तम् आख्यास्ये
श्रीवात्मीकिप्रकीर्तितम् ।
पदपरिचयः
श्रीपतिम् – इ, पुं, द्वि, ए.व (श्रियः पतिः = श्रीपतिः)
प्रणिपत्य – ल्यबन्तम् अव्ययम् (नमस्कृत्य)
अहम् – अस्मद्, प्र, ए.व (कविः)
श्रीवत्साङ्कितवक्षसम् – स, पुं, द्वि, ए.व (श्रीवत्सेन अङ्कितं वक्षः यस्य सः,
श्रीवत्साङ्कितवक्षाः)
श्रीरामोदन्तम् – अ, पुं, द्वि, ए.व (श्रीरामस्य उदन्तः= श्रीरामोदन्तः)
आख्यास्ये - लृट् लकारः, आत्मनेपदि, उत्तमपुरुषः, ए.व (कथयिष्यामि)
श्रीवात्मीकिप्रकीर्तितम् – अ, पुं द्वि, ए.व (श्रीवात्मीकिना प्रकीर्तितम् =
श्रीवात्मीकिप्रकीर्तितम्)
अन्वयरचना -
क्रियापदम् – आख्यास्ये
ल्यबन्तम् – प्रणिपत्य
अहम् आख्यास्ये ।
अहं किम् आख्यास्ये?
अहं श्रीरामोदन्तम् आख्यास्ये |
अहं कीदृशं श्रीरामोदन्तम् आख्यास्ये?
अहं श्रीवात्मीकिप्रकीर्तितं श्रीरामोदन्तम् आख्यास्ये ।
किं कृत्वा अहं श्रीवात्मीकिप्रकीर्तितं श्रीरामोदन्तम् आख्यास्ये?
श्रीपतिं प्रणिपत्य
(ल्यबन्तं पदम् – प्रणिपत्य, भूतकालार्थे भवति)
कीदृशं श्रीपतिं प्रणिपत्य?
श्रीवत्साङ्कितवक्षसं श्रीपतिं प्रणिपत्य ...
श्लोकान्वयः
अहं श्रीवत्साङ्कितवक्षसं श्रीपतिं प्रणिपत्य, श्रीवात्मीकिप्रकीर्तितं
श्रीरामोदन्तं अख्यास्ये ।
After
bowing to Sripati (Maha Vishnu), whose chest is adorned
with Srivatasam, I am going to narrate the story of Sri Rama, famously told by
Sage Valmiki.
ग्रन्थारम्भे मङ्ललाचरणं भवति । अत्र मङ्गलश्लोके श्रिपतिनमस्कारः इति
नमस्क्रिया, श्रीरामकथाख्यानम् इति (ग्रन्थविषयस्य) वस्तुनिर्देशः च।
पुरा विश्रवसः पुत्रो रावणो नाम राक्षसः |
आसीदस्यानुजौ चास्तां कुम्भकर्णविभीषणौ ॥ २ ॥
पदच्छेदः
पुरा विश्रवसः पुत्रः रावणः नाम राक्षसः आसीत् अस्य अनुजौ च आस्ताम्
कुम्भकर्णविभीषणौ ।
पदपरिचयः
पुरा – अव्ययम् (पुवस्मिन् काले)
विश्रवसः – स, पुं, ष, ए.व
पुत्रः – अ, पुं प्र, ए.व
रावणः – अ, पुं प्र, ए.व
नाम – न, नपुं प्र, ए.व
राक्षसः – अ, पुं प्र, ए.व
आसीत् – अस (भुवि), लङ्, परस्मै, प्र, ए.व
अस्य – इदम्, पुं, ष, ए.व
अनुजौ – अ, पुं, द्वि, ए.व (कनिष्ठभ्रातरौ)
च - अव्ययम्
आस्ताम् – अस (भुवि), लङ्, परस्मै, प्र, द्वि.व
कुम्भकर्णविभीषणौ – अ, पुं, प्र, द्वि.व
अन्वयरचना
क्रियापदम्
-
१.
आसीत् (एकवचने)
२.
आस्ताम् (द्विवचने)|
अन्वये वाक्यद्वयं भवति ।
अन्वयः – प्रथवाक्यम् (क्रियापदम् – आसीत्)
कः आसीत्?
राक्षसः आसीत् ।
किदृशः राक्षसः आसीत्? (कर्तृपदविशेषणं योजयतु)
विश्रवसः पुत्रः राक्षसः आसीत् ।
पुनः किदृशः (किं नाम) राक्षसः आसीत्?
विश्रवसः पुत्रः रावणः नाम राक्षसः आसीत् |
कदा विश्रवसः पुत्रः रावणः नाम राक्षसः आसीत्?
पुरा विश्रवसः पुत्रः रावणः नाम राक्षसः आसीत् ।
अन्वयः
पुरा विश्रवसः पुत्रः रावणः नाम राक्षसः आसीत् ।
अन्वय: - द्वितीयवाक्यम् (क्रियापदम् – आस्ताम्)
कुम्भकर्णविभीषणौ च आस्ताम् ।
कीदृशौ कुम्भकर्णविभीषणौ च आस्ताम्?
अनुजौ कुम्भकर्णविभीषणौ च आस्ताम्
कस्य अनुजौ कुम्भकर्णविभीषणौ च आस्ताम्?
अस्य अनुजौ कुम्भकर्णविभीषणौ च आस्ताम्? (अस्य = रावणस्य)
श्लोकान्वयः
पुरा विश्रवसः पुत्रः रावणः नाम राक्षसः आसीत् । अस्य अनुजौ कुम्भकर्णविभीषणौ च
आस्ताम् ।
सन्धिः आसीत् + अस्य = आसीदस्य -
जश्त्वसन्धिः
आसीदस्य + अनुजौ
= आसीदस्यानुजौ - सवर्णदीर्घसन्धिः
च + आस्ताम् =
चास्ताम् - सवर्णदीर्घसन्धिः
रावणः + नाम =
रावणो नाम – विसर्गसन्धिः
ते तु तीव्रेण तपसा प्रत्यक्षीकृत्य वेधसम् ।
वव्रिरे च वरानिष्टानस्मादाश्रितवत्सलात् ॥ ३ ॥
पदच्छेदः
ते तु तीव्रेण तपसा प्रत्यक्षीकृत्य वेधसम् वव्रिरे च वरान् इष्टान् अस्मात्
आश्रितवत्सलात् ।
पदपरिचयः
ते – तद्, पुं, प्र, ब.व
तु – अव्ययम्
तीव्रेण – अ, नपुं, तृ, ए.व (कठिनेन)
तपसा – स, नपुं, तृ, ए.व
प्रत्यक्षीकृत्य – ल्यबन्तम् अव्ययम् (साक्षात्कृत्वा)
वेधसम् – स, पुं, द्वि, ए.व (ब्रह्माणम्)
वव्रिरे – वृण्, लिट्, आ, प्र, ब.व
च – अव्ययम्
वरान् – अ, पुं, द्वि, ब.व
इष्टान् – अ, पुं, द्वि, ब.व (प्रियान्)
अस्मात् – इदम्, पुं, प, ए.व
आश्रितवत्सलात् – अ, पुं, प, ए.व (आश्रितेषु वात्स्लयं यस्य सः, आश्रितवत्सलः)
अन्वयरचना
क्रियापदम् – वव्रिरे
के वव्रिरे?
ते तु वव्रिरे । (ते = रावणः कुम्भकर्णः विभीषणः च)
ते तु कान् वव्रिरे?
ते तु वरान् वव्रिरे ।
ते तु कीदृशान्
वरान् वव्रिरे?
ते तु इष्टान् वरान् वव्रिरे ।
ते तु कस्मात् इष्टान् वरान् वव्रिरे?
ते तु अस्मात् इष्टान् वरान् वव्रिरे ।
ते तु कीदृशात् अस्मात् इष्टान् वरान् वव्रिरे?
ते तु आश्रितवत्सलात् अस्मात् इष्टान् वरान् वव्रिरे ।
ते तु किं कृत्वा आश्रितवत्सलात् अस्मात् इष्टान् वरान् वव्रिरे?
प्रत्यक्षीक्रुत्य - ल्यबन्तम्
कं प्रत्यक्षीक्रूत्य? वेधसं प्रत्यक्षीक्रुत्य ...
केन वेधसं प्रत्यक्षीकृत्य? तपसा वेधसं प्रत्यक्षीक्रुत्य ...
कीदृशेन तपसा वेधसं प्रत्यक्षीक्रुत्य? तीव्रेण तपसा वेधसम् प्रत्यक्षीक्रुत्य
....
श्लोकान्वयः -
ते तु तीव्रेण तपसा वेधसं प्रत्यक्षीकृत्य आश्रितवत्सलात् अस्मात् इष्टान्
वरान् वव्रिरे ।
By
severe penances, the three brothers made Brahma appear in front of them and
sought boons as per their wish from Brahama who is very fond of those who take
refuge in HIM.
अवधेयम् –
१.
विशेषणं विशेष्यं च समानविभक्तौ, वचने, लिङ्गे च भवति ।
-
श्रीवत्साङ्कितवक्षसम् श्रीपतिम् & श्रीवात्मीकिप्रकीर्तितम्
श्रीरामोदन्तम् - (द्वितीया विभक्तिः, पुंलिङ्गः, ऎकवचनम् ।
-
तीव्रेण तपसा - तृतीया विभक्तिः, नपुंसकलिङ्ग:, ए.व ।
-
आश्रितव्त्सलात् अस्मात् - पञ्चमी विभक्तिः, पुंलिङ्गः, ए.व ।
२.
क्रियापदं कर्तृपदम् अनुसरति पुरुषे वचने च ।
-
अहम् आख्यास्ये - उत्तमपुरुषः, एकवचनम् ।
-
रावणः आसीत् - प्रथमपुरुशषः, ए.व ।
-
अनुजौ आस्ताम् - प्र.पु. द्वि.व ।
-
ते वव्रिरे – प्र.पु, ब.व ।
रावणो मानुषादन्यैरवध्यत्वं तथात्मनः ।
निर्देवत्वेच्छया निद्रां कुम्भकर्णोऽवृणीत च ॥ ४ ॥
पदच्छेदः
रावणः मानुषात् अन्यै: अवध्यत्वम् तथा आत्मनः निर्देवत्वेच्छया निद्राम्
कुम्भकर्णः अवृणीत च ।
पदपरिचयः
रावणः – अ, पुं प्र, ए.व
मानुषात् – अ, पुं प, ए.व
अन्यै: – अ, पुं तृ, ब.व
अवध्यत्वम् – अ, नपुं द्वि, ए.व (न वध्यत्वम् = अवध्यत्वम्)
तथा – अव्ययम्
आत्मनः – न, पुं ष, ए.व (स्वस्य)
निर्देवत्वेच्छया – आ, स्त्री, तृ, ए.व (न देवत्वम् = निर्देवत्वम्,
निर्देवत्वस्य इच्छा = निर्देवत्वेच्छा)
निद्राम् – आ, स्त्री द्वि, ए.व
कुम्भकर्णः – अ, पुं प्र, ए.व
अवृणीत – वृण्, लङ्, आ, प्र, ए.व
च - अव्ययम्
अन्वयरचना
क्रियापदम् - अवृणीत
कः अवृणीत?
रावणः अवृणीत ।
रावणः किम् अवृणीत?
रावणः अवध्यत्वम् अवृणीत ।
रावणः कस्य अवध्यत्वम् अवृणीत?
रावणः आत्मनः अवध्यत्वम् अवृणीत ।
रावणः कैः आत्मनः अवध्यत्वम् अवृणीत?
रावणः अन्यैः आत्मनः अवध्यत्वम् अवृणीत ।
रावणः कस्मात् अन्यैः आत्मनः अवध्यत्वम् अवृणीत?
रावणः मानुषात् अन्यैः आत्मनः अवध्यत्वम् अवृणीत ।
तथा कुम्भकर्णः च (अवृणीत) ।
तथा कुम्भकर्णः कां च अवृणीत? तथा कुम्भकर्णः निद्रां च (अवृणीत) ।
तथा कया कुम्भकर्णः निद्रां च (अवृणीत)?
तथा निर्देवत्वेच्छया कुम्भकर्णः निद्रां च (अवृणीत) ।
श्लोकान्वयः
रावणः मानुषात् अन्यैः आत्मनः अवध्यत्वम्, तथा कुम्भकर्णः निर्देवत्वेच्छया निद्रां
च अवृणीत |
The
boon Ravana sought was that he should not be killed by none other than humans. Death
not from Gods, Yaksha, Rakashas etc and he thought mere humans will never be
strong enough to kill him. What about Kumbhakarna’s boon? The story is that
Gods tricked him. Kknowing that निर्देवत्वम् would be
disastrous, they prayed to Saraswati to help. She entered Kumbhakarna’s mouth
and made him ask for निद्रा instead of “निर्देवत्वम्”
।
विभीषणो विष्णुभक्तिं वव्रे सत्वगुणान्वितः ।
तेभ्य एतान् वरान् दत्वा तत्रैवान्तर्दधे प्रभुः ॥ ५ ॥
पदच्छेदः
विभीषणः विष्णुभक्तिम् वव्रे सत्वगुणान्वितः तेभ्यः एतान् वरान् दत्वा तत्र एव
अन्तर्दधे प्रभुः ।
पदपरिचयः
विभीषणः – अ, पुं प्र, ए.व
विष्णुभक्तिम् – इ, स्त्री, द्वि, ए.व (विष्णौ भक्तिः = विष्णुभक्तिः)
वव्रे- वृण्, लिट्, प, प्र, ए.व
सत्वगुणान्वितः – अ, पुं प्र, ए.व (सत्वगुणेन अन्वितः = सत्वगुणान्वितः)
तेभ्यः – तत्, पुं, च, ब.व
एतान् – एतद्, पुं, द्वि, ब.व
वरान् – अ, पुं द्वि, ब.व
दत्वा – क्त्वान्तम् अव्ययम्
तत्र – अव्ययम्
एव – अव्ययम्
अन्तर्दधे – अन्तः + दधे, लिट्, आ, प्र, ए.व
प्रभुः – उ, पुं प्र, ए.व
सन्धिः तत्र + एव = तत्रैव - वृद्धिसन्धिः
अन्वयरचना -
क्रियापदम् -
१.
वव्रे
२.
अन्तर्दधे
अन्वयः - प्रथमवाक्यम्
विभीषणः वव्रे ।
कीद्रूशः विभीषणः वव्रे?
सत्वगुणान्वितः विभीषणः वव्रे ।
सत्वगुणान्वितः विभीषणः कां वव्रे?
सत्वगुणान्वितः विभीषणः विष्णुभक्तिं वव्रे |
अन्वयः – द्वितीयवाक्यम्
प्रभुः अन्तर्दधे ।
प्रभुः कुत्र अन्तर्दधे?
प्रभुः तत्र एव अन्तर्दधे |
किं कृत्वा? दत्वा (क्त्वान्तम्)
कान् दत्वा? एतान् वरान् दत्वा ….
केभ्य: एतान् वरान् दत्वा? तेभ्यः एतान् वरान् दत्वा ... (तेभ्यः= रावणकुम्भकर्णविभीषणेभ्यः)
श्लोकान्वयः
सत्वगुणान्वितः विभीषणः विष्णुभक्तिं वव्रे । तेभ्यः एतान् वरान् दत्वा
प्रभुः तत्र एव अन्तर्दधे ।
Vibhishana was of Savic nature, hence he sought a boon to have devotion in Lord Vishnu. Having granted these boons, Brahma disappeared from there.